|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.232. अध्यायः 232
Mahabharata - Vana Parva - Chapter Topics
स्कन्दस्य देवसैनापत्येऽभिषेकानन्तरं महादेवस्य पार्वत्या सह भद्रवटंप्रति प्रस्थानम् ॥ 1 ॥ तदेन्द्रादिभिर्दिक्पालैः ससैन्यैस्तमनु प्रस्थानम् ॥ 2 ॥ तदा रुद्रेण स्कन्दस्य देवसैनापत्ये नियोजनम् ॥ 3 ॥ ततो देवासुराणां महायुद्धम्। तत्रस्कन्देन महिषासुरसंहारः ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-232-0x(2575)(25043)
यदाऽभिषिक्तो भगवान्सैनापत्ये तु पावकिः।
तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ॥ 3-232-1(25044)
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः।
`अनुयातः सुरैः सर्वैः सहस्राक्षपुरोगमैः' ॥ 3-232-2(25045)
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे।
उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितम् ॥ 3-232-3(25046)
तेपिबन्त इवाकाशं त्रासयन्तक्षराचरान्।
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ॥ 3-232-4(25047)
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह।
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥ 3-232-5(25048)
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह।
आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥ 3-232-6(25049)
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह।
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ॥ 3-232-7(25050)
जृम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः।
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ॥ 3-232-8(25051)
तस्य दक्षिणतो देवा बहवश्चित्रयोधिनः।
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः ॥ 3-232-9(25052)
यमश्च मृत्युना सार्धं सर्वतः परिवारितः।
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ॥ 3-232-10(25053)
यमस्य पृष्ठतश्चैव रघोरस्त्रिशिखरः शितः।
विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः ॥ 3-232-11(25054)
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः।
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः ॥ 3-232-12(25055)
पृष्ठतोविजयस्यापि याति रुद्रस्य पट्टसः।
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः ॥ 3-232-13(25056)
पट्टसं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम्।
कमण्डलुश्चाप्यनु तं महर्षिगणसेवितः ॥ 3-232-14(25057)
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः।
भृग्वङ्गिरोभिः सहितो दैधतैश्चानुपूजितः ॥ 3-232-15(25058)
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः।
याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ॥ 3-232-16(25059)
ऋषयश्चापि देवाश्च गन्धर्वा भुजगास्तथा।
नद्यो ह्रदाःसमुद्राश्चतथैवाप्सरसां गणाः ॥ 3-232-17(25060)
नक्षत्राणि ग्रहाश्चैवदेवानां शिशवश्च ये।
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ॥ 3-232-18(25061)
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः।
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् ॥ 3-232-19(25062)
छत्रं च पाण्डुरं सोमस्तस्य मूर्धन्यधारयत्।
चामरे चापि वायुश्च गृहीत्वाऽग्निश्च धिष्ठितौ ॥ 3-232-20(25063)
शक्रश्च पृष्ठतस्तस्य याति राजञ्छ्रिया वृतः।
सहराजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ॥ 3-232-21(25064)
गौरी विद्याऽथ गान्धारी केशिनी मित्रसाह्वया।
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥ 3-232-22(25065)
तत्र विद्यागणाः सर्वेये केचित्कविभिः स्मृताः।
तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ॥ 3-232-23(25066)
गृहीत्वा तु पताकां वै यात्यग्रे राक्षसो ग्रहः।
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस् वै सखा।
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥ 3-232-24(25067)
एबिश्च सहितो देवस्तत्रयाति यथासुखम्।
अग्रतः पृष्ठतस्चैवं न हि तस्य गतिर्ध्रुवा ॥ 3-232-25(25068)
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम्।
शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ॥ 3-232-26(25069)
`एवं सर्वे सुरगणास्तदा वै प्रीतमानसाः'।
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ॥ 3-232-27(25070)
कदेवसेनापतिस्त्वं देवसेनाभिरावृतः।
अनुदच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ॥ 3-232-28(25071)
अथाब्रवीन्महासेनं महादेवो बृहद्वचः।
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ॥ 3-232-29(25072)
स्कन्द उवाच। 3-232-30x(2576)
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो।
यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥ 3-232-30(25073)
रुद्र उवाच। 3-232-31x(2577)
कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि।
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥ 3-232-31(25074)
मार्कण्डेय उवाच। 3-232-25x(2578)
इत्युक्त्वा विससर्जैनं परिष्यज्य महेश्वरः।
`स्कन्दं सहोमया प्रीतो ज्वलन्तमिव तेजसा' ॥ 3-232-32(25075)
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत्।
सहसैव महाराजदेवान्सर्वान्प्रमोहयत् ॥ 3-232-33(25076)
जज्वाल स्वं सनक्षत्रं प्रमूढं भुवनं भृशम्।
चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो ॥ 3-232-34(25077)
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा।
उमा चैवमहाभाग देवाश्च समहर्षयः ॥ 3-232-35(25078)
ततस्तेषु प्रमूढेषु पर्वताम्बुदसन्निभम्।
नानाप्रहरणं घोरमदृश्यत महद्बलम् ॥ 3-232-36(25079)
तद्वै घोरमसङ्ख्येयं गर्जच्च विविधा गिरः।
अभ्यद्रवद्रणए देवान्भगवन्तं च शंकरम् ॥ 3-232-37(25080)
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः।
पर्वताश्च शतघ्न्यश्च प्रासासिपरिघा गदाः ॥ 3-232-38(25081)
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः।
क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ॥ 3-232-39(25082)
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम्।
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ॥ 3-232-40(25083)
असुरैर्वध्यमानं तत्पावकैरिव काननम्।
अपतद्दग्धभूयिष्ठं महाद्रुमवनं तथा ॥ 3-232-41(25084)
ते विभिन्नशिरोदेहाः प्राद्रवन्तो दिवौकसः।
न नाथमधिगच्छन्ति वध्यमाना महारणे ॥ 3-232-42(25085)
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः।
आश्वासयन्नुवाचेदं बलभिद्दानवार्दितम् ॥ 3-232-43(25086)
भयं त्यजत भद्रं व शूराः शस्त्राणि गृह्णत।
कुरुध्वंविक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ॥ 3-232-44(25087)
जयतैनाम्सुदुर्वृत्तान्दानवान्घोरदर्शनान्।
अभिद्रवत भद्रं वो मया सह महासुरान् ॥ 3-232-45(25088)
शक्रस् वचनं श्रुत्वा समाश्वस्ता दिवौकसः।
दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥ 3-232-46(25089)
ततस्ते त्रिदशाः सर्वेमरुतश्च महाबलाः।
प्रत्युद्ययुर्महाभागाः साध्याश्च वसुभिः सह ॥ 3-232-47(25090)
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे।
शराश्च दैत्यकायेषु पिबन्ति रुधिरं बहु ॥ 3-232-48(25091)
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा।
निपतन्तोऽभ्यदृश्यन्त नगेभ्य इव पन्नगाः ॥ 3-232-49(25092)
तानि दैत्यशरीराणि निर्भिन्नानिस्म सायकैः।
अपतन्भूतलेराजंश्छिन्नाभ्राणीव सर्वशः ॥ 3-232-50(25093)
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि।
त्रासितं विविधैर्बाणैः कृतंचैव पराङ्युखम् ॥ 3-232-51(25094)
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः।
संहतानि च तूर्याणि प्रावाद्यन्त ह्यनेकशः ॥ 3-232-52(25095)
एवमन्योन्रसंयुक्तं युद्धमासीत्सुदारुणम्।
देवानां दानवानां च मांसशोणितकर्दमम् ॥ 3-232-53(25096)
अनयो देवलोकस्य सहसैवाभ्यदृश्यत।
तथहि दानवा घोरा विनिघ्नन्ति दिवौकसः ॥ 3-232-54(25097)
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः।
बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ॥ 3-232-55(25098)
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः।
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् ॥ 3-232-56(25099)
ते तं धनैरिवादित्यं दृष्ट्वासंपरिवारितम्।
तमुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ॥ 3-232-57(25100)
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम्।
`महाकायं महाराज सतोयमिव तोयदम्' ॥ 3-232-58(25101)
पतता तेन गिरिणा देवसैन्यस् पार्थिव।
भीमरूपेण निहतमयुतं प्रापतद्भुवि ॥ 3-232-59(25102)
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान्।
अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ॥ 3-232-60(25103)
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः।
व्यद्रवन्तरणे बीता विकीर्णायुधकेतनाः ॥ 3-232-61(25104)
ततःस महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ।
अभिद्रुत्य च जग्राह रुद्रस् रथकूवरम् ॥ 3-232-62(25105)
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः।
रेसतू रोदसी गाढं मुमुहुश् महर्षयः ॥ 3-232-63(25106)
अनदंश्चमहाकाया दैत्या जलधरोपमाः।
आसीच्चनिश्चितं तेषां जितमस्माभिरित्युत ॥ 3-232-64(25107)
तथाभूते तु भगवानाहूय गुहमात्मजम्।
`दौरात्म्यं पश्य पुतर् त्वं दानवस्य दुरात्मनः।
जहि शीघ्रं दुराचारं द्रष्टुमिच्छामि ते बलम् ॥ 3-232-65(25108)
इत्युक्ताव भगवान्स्कन्दं परिपूज्य महेश्वरः।
अयोजयन्निग्रहार्थं महिषस् गतायुषः'।
सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ॥ 3-232-66(25109)
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस् चानदत्।
देवान्संत्रासयंश्चापि दैत्यांस्चापिप्रहर्षयत् ॥ 3-232-67(25110)
ततस्तस्मिनभये घोरे देवानां समुपस्थिते।
आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् ॥ 3-232-68(25111)
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः।
लोहिताश्वो महाबाहुर्हिरण्यकवचः प्रभुः ॥ 3-232-69(25112)
रथमादित्यसंकाशमास्थितः कनकप्रभम्।
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ॥ 3-232-70(25113)
स चापि तां प्रज्वलितां महिषस् विदारिणीम्।
मुमोच शक्तिं राजेनद्र महासेनो महाबलः ॥ 3-232-71(25114)
सा मुक्ताऽभ्यहरत्तस्य महिषस्य शिरो महत्।
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ॥ 3-232-72(25115)
पतता शिरसा तेन द्वारं षोडशयोजनम्।
पर्वताभेन पिहितं तदाऽगम्यं ततोऽभवत्।
उत्तराः कुरवस्तेन गच्छन्त्यद्य यथासुम् ॥ 3-232-73(25116)
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः।
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ॥ 3-232-74(25117)
प्रायः शरैर्विनिहता महासेनेन धीमता।
शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः।
स्कन्दपारिषदैर्हत्वा भक्षिताश्च सहस्रशः ॥ 3-232-75(25118)
दनवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम्।
क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ॥ 3-232-76(25119)
तमांसीवयथा सूर्यो वृक्षानग्निर्घनान्खगः।
तथास्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ॥ 3-232-77(25120)
संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम्।
शुशुभे कृतिकापुत्रः प्रकीरणांशुरिवांशुमान् ॥ 3-232-78(25121)
नष्टशत्रुर्यदा स्कन्दः प्रयातस्तु महेश्वरम्।
तदाऽब्रवीन्महासेनं परिष्वज्य पुरंदरः ॥ 3-232-79(25122)
ब्रह्मदत्तवरः स्कन्द त्वयाऽयं महिषो हतः।
`हजय्यो युधि देवानां दानवः स महाबलः' ॥ 3-232-80(25123)
देवास्तृणसमा यस्य वबूवुर्जयतांवर।
सोऽयं त्वया महाबाहो शमितो देवकण्टकः ॥ 3-232-81(25124)
शतं महिषतुल्यानां दानवानां त्वय रणे।
निहतंदेवशत्रूणां यैर्वयं पूर्वतापिताः ॥ 3-232-82(25125)
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः।
अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ॥ 3-232-83(25126)
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति।
त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति।
वशगाश्च भविष्यनति सुरास्तव महाभुज ॥ 3-232-84(25127)
महासेनमेवमुक्त्वा निवृत्तः सह दैवतैः।
अनुज्ञातो भगवता त्र्यम्बकेण शचीपतिः ॥ 3-232-85(25128)
गतो भद्रवटंरुद्रो निवृत्ताश्च दिवौकसः।
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ॥ 3-232-86(25129)
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः।
एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ॥ 3-232-87(25130)
स्कन्दस् य इदं विप्रः पठेज्जन्म समाहितः।
`शृणुयाद्ब्राह्मणेभ्यो यः श्रावयेद्वाविचेतनम् ॥ 3-232-88(25131)
धनमायुर्यशो दीप्तिं पुत्राञ्शत्रुजयंतथा'।
सपुष्टिमिहसंप्राप्य स्कन्दसालोक्यमाप्नुयात् ॥ 3-232-89(25132)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-232-8 जृम्भकैर्ग्रहविशेषैः भास्करैर्यक्षरक्षोभिः इति ध.पाठः ॥ 3-232-23 विद्यागणाः स्तुतिपद्यसमूह्यः ॥ 3-232-62 कूवरं धूःप्रदेशम् ॥ 3-232-63 रेसतुः शब्दं चक्रतुः। रोदसी द्यावाभूमी ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|