(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.232. अध्यायः 232
Mahabharata - Vana Parva - Chapter Topics
स्कन्दस्य देवसैनापत्येऽभिषेकानन्तरं महादेवस्य पार्वत्या सह भद्रवटंप्रति प्रस्थानम् ॥ 1 ॥ तदेन्द्रादिभिर्दिक्पालैः ससैन्यैस्तमनु प्रस्थानम् ॥ 2 ॥ तदा रुद्रेण स्कन्दस्य देवसैनापत्ये नियोजनम् ॥ 3 ॥ ततो देवासुराणां महायुद्धम्। तत्रस्कन्देन महिषासुरसंहारः ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-232-0x(2575)(25043)
यदाऽभिषिक्तो भगवान्सैनापत्ये तु पावकिः।
तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ॥ 3-232-1(25044)
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः।
`अनुयातः सुरैः सर्वैः सहस्राक्षपुरोगमैः' ॥ 3-232-2(25045)
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे।
उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितम् ॥ 3-232-3(25046)
तेपिबन्त इवाकाशं त्रासयन्तक्षराचरान्।
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ॥ 3-232-4(25047)
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह।
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥ 3-232-5(25048)
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह।
आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥ 3-232-6(25049)
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह।
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ॥ 3-232-7(25050)
जृम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः।
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ॥ 3-232-8(25051)
तस्य दक्षिणतो देवा बहवश्चित्रयोधिनः।
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः ॥ 3-232-9(25052)
यमश्च मृत्युना सार्धं सर्वतः परिवारितः।
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ॥ 3-232-10(25053)
यमस्य पृष्ठतश्चैव रघोरस्त्रिशिखरः शितः।
विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः ॥ 3-232-11(25054)
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः।
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः ॥ 3-232-12(25055)
पृष्ठतोविजयस्यापि याति रुद्रस्य पट्टसः।
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः ॥ 3-232-13(25056)
पट्टसं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम्।
कमण्डलुश्चाप्यनु तं महर्षिगणसेवितः ॥ 3-232-14(25057)
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः।
भृग्वङ्गिरोभिः सहितो दैधतैश्चानुपूजितः ॥ 3-232-15(25058)
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः।
याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ॥ 3-232-16(25059)
ऋषयश्चापि देवाश्च गन्धर्वा भुजगास्तथा।
नद्यो ह्रदाःसमुद्राश्चतथैवाप्सरसां गणाः ॥ 3-232-17(25060)
नक्षत्राणि ग्रहाश्चैवदेवानां शिशवश्च ये।
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ॥ 3-232-18(25061)
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः।
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् ॥ 3-232-19(25062)
छत्रं च पाण्डुरं सोमस्तस्य मूर्धन्यधारयत्।
चामरे चापि वायुश्च गृहीत्वाऽग्निश्च धिष्ठितौ ॥ 3-232-20(25063)
शक्रश्च पृष्ठतस्तस्य याति राजञ्छ्रिया वृतः।
सहराजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ॥ 3-232-21(25064)
गौरी विद्याऽथ गान्धारी केशिनी मित्रसाह्वया।
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥ 3-232-22(25065)
तत्र विद्यागणाः सर्वेये केचित्कविभिः स्मृताः।
तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ॥ 3-232-23(25066)
गृहीत्वा तु पताकां वै यात्यग्रे राक्षसो ग्रहः।
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस् वै सखा।
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥ 3-232-24(25067)
एबिश्च सहितो देवस्तत्रयाति यथासुखम्।
अग्रतः पृष्ठतस्चैवं न हि तस्य गतिर्ध्रुवा ॥ 3-232-25(25068)
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम्।
शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ॥ 3-232-26(25069)
`एवं सर्वे सुरगणास्तदा वै प्रीतमानसाः'।
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ॥ 3-232-27(25070)
कदेवसेनापतिस्त्वं देवसेनाभिरावृतः।
अनुदच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ॥ 3-232-28(25071)
अथाब्रवीन्महासेनं महादेवो बृहद्वचः।
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ॥ 3-232-29(25072)
स्कन्द उवाच। 3-232-30x(2576)
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो।
यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥ 3-232-30(25073)
रुद्र उवाच। 3-232-31x(2577)
कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि।
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥ 3-232-31(25074)
मार्कण्डेय उवाच। 3-232-25x(2578)
इत्युक्त्वा विससर्जैनं परिष्यज्य महेश्वरः।
`स्कन्दं सहोमया प्रीतो ज्वलन्तमिव तेजसा' ॥ 3-232-32(25075)
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत्।
सहसैव महाराजदेवान्सर्वान्प्रमोहयत् ॥ 3-232-33(25076)
जज्वाल स्वं सनक्षत्रं प्रमूढं भुवनं भृशम्।
चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो ॥ 3-232-34(25077)
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा।
उमा चैवमहाभाग देवाश्च समहर्षयः ॥ 3-232-35(25078)
ततस्तेषु प्रमूढेषु पर्वताम्बुदसन्निभम्।
नानाप्रहरणं घोरमदृश्यत महद्बलम् ॥ 3-232-36(25079)
तद्वै घोरमसङ्ख्येयं गर्जच्च विविधा गिरः।
अभ्यद्रवद्रणए देवान्भगवन्तं च शंकरम् ॥ 3-232-37(25080)
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः।
पर्वताश्च शतघ्न्यश्च प्रासासिपरिघा गदाः ॥ 3-232-38(25081)
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः।
क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ॥ 3-232-39(25082)
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम्।
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ॥ 3-232-40(25083)
असुरैर्वध्यमानं तत्पावकैरिव काननम्।
अपतद्दग्धभूयिष्ठं महाद्रुमवनं तथा ॥ 3-232-41(25084)
ते विभिन्नशिरोदेहाः प्राद्रवन्तो दिवौकसः।
न नाथमधिगच्छन्ति वध्यमाना महारणे ॥ 3-232-42(25085)
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः।
आश्वासयन्नुवाचेदं बलभिद्दानवार्दितम् ॥ 3-232-43(25086)
भयं त्यजत भद्रं व शूराः शस्त्राणि गृह्णत।
कुरुध्वंविक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ॥ 3-232-44(25087)
जयतैनाम्सुदुर्वृत्तान्दानवान्घोरदर्शनान्।
अभिद्रवत भद्रं वो मया सह महासुरान् ॥ 3-232-45(25088)
शक्रस् वचनं श्रुत्वा समाश्वस्ता दिवौकसः।
दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥ 3-232-46(25089)
ततस्ते त्रिदशाः सर्वेमरुतश्च महाबलाः।
प्रत्युद्ययुर्महाभागाः साध्याश्च वसुभिः सह ॥ 3-232-47(25090)
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे।
शराश्च दैत्यकायेषु पिबन्ति रुधिरं बहु ॥ 3-232-48(25091)
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा।
निपतन्तोऽभ्यदृश्यन्त नगेभ्य इव पन्नगाः ॥ 3-232-49(25092)
तानि दैत्यशरीराणि निर्भिन्नानिस्म सायकैः।
अपतन्भूतलेराजंश्छिन्नाभ्राणीव सर्वशः ॥ 3-232-50(25093)
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि।
त्रासितं विविधैर्बाणैः कृतंचैव पराङ्युखम् ॥ 3-232-51(25094)
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः।
संहतानि च तूर्याणि प्रावाद्यन्त ह्यनेकशः ॥ 3-232-52(25095)
एवमन्योन्रसंयुक्तं युद्धमासीत्सुदारुणम्।
देवानां दानवानां च मांसशोणितकर्दमम् ॥ 3-232-53(25096)
अनयो देवलोकस्य सहसैवाभ्यदृश्यत।
तथहि दानवा घोरा विनिघ्नन्ति दिवौकसः ॥ 3-232-54(25097)
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः।
बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ॥ 3-232-55(25098)
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः।
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् ॥ 3-232-56(25099)
ते तं धनैरिवादित्यं दृष्ट्वासंपरिवारितम्।
तमुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ॥ 3-232-57(25100)
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम्।
`महाकायं महाराज सतोयमिव तोयदम्' ॥ 3-232-58(25101)
पतता तेन गिरिणा देवसैन्यस् पार्थिव।
भीमरूपेण निहतमयुतं प्रापतद्भुवि ॥ 3-232-59(25102)
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान्।
अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ॥ 3-232-60(25103)
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः।
व्यद्रवन्तरणे बीता विकीर्णायुधकेतनाः ॥ 3-232-61(25104)
ततःस महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ।
अभिद्रुत्य च जग्राह रुद्रस् रथकूवरम् ॥ 3-232-62(25105)
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः।
रेसतू रोदसी गाढं मुमुहुश् महर्षयः ॥ 3-232-63(25106)
अनदंश्चमहाकाया दैत्या जलधरोपमाः।
आसीच्चनिश्चितं तेषां जितमस्माभिरित्युत ॥ 3-232-64(25107)
तथाभूते तु भगवानाहूय गुहमात्मजम्।
`दौरात्म्यं पश्य पुतर् त्वं दानवस्य दुरात्मनः।
जहि शीघ्रं दुराचारं द्रष्टुमिच्छामि ते बलम् ॥ 3-232-65(25108)
इत्युक्ताव भगवान्स्कन्दं परिपूज्य महेश्वरः।
अयोजयन्निग्रहार्थं महिषस् गतायुषः'।
सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ॥ 3-232-66(25109)
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस् चानदत्।
देवान्संत्रासयंश्चापि दैत्यांस्चापिप्रहर्षयत् ॥ 3-232-67(25110)
ततस्तस्मिनभये घोरे देवानां समुपस्थिते।
आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् ॥ 3-232-68(25111)
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः।
लोहिताश्वो महाबाहुर्हिरण्यकवचः प्रभुः ॥ 3-232-69(25112)
रथमादित्यसंकाशमास्थितः कनकप्रभम्।
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ॥ 3-232-70(25113)
स चापि तां प्रज्वलितां महिषस् विदारिणीम्।
मुमोच शक्तिं राजेनद्र महासेनो महाबलः ॥ 3-232-71(25114)
सा मुक्ताऽभ्यहरत्तस्य महिषस्य शिरो महत्।
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ॥ 3-232-72(25115)
पतता शिरसा तेन द्वारं षोडशयोजनम्।
पर्वताभेन पिहितं तदाऽगम्यं ततोऽभवत्।
उत्तराः कुरवस्तेन गच्छन्त्यद्य यथासुम् ॥ 3-232-73(25116)
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः।
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ॥ 3-232-74(25117)
प्रायः शरैर्विनिहता महासेनेन धीमता।
शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः।
स्कन्दपारिषदैर्हत्वा भक्षिताश्च सहस्रशः ॥ 3-232-75(25118)
दनवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम्।
क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ॥ 3-232-76(25119)
तमांसीवयथा सूर्यो वृक्षानग्निर्घनान्खगः।
तथास्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ॥ 3-232-77(25120)
संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम्।
शुशुभे कृतिकापुत्रः प्रकीरणांशुरिवांशुमान् ॥ 3-232-78(25121)
नष्टशत्रुर्यदा स्कन्दः प्रयातस्तु महेश्वरम्।
तदाऽब्रवीन्महासेनं परिष्वज्य पुरंदरः ॥ 3-232-79(25122)
ब्रह्मदत्तवरः स्कन्द त्वयाऽयं महिषो हतः।
`हजय्यो युधि देवानां दानवः स महाबलः' ॥ 3-232-80(25123)
देवास्तृणसमा यस्य वबूवुर्जयतांवर।
सोऽयं त्वया महाबाहो शमितो देवकण्टकः ॥ 3-232-81(25124)
शतं महिषतुल्यानां दानवानां त्वय रणे।
निहतंदेवशत्रूणां यैर्वयं पूर्वतापिताः ॥ 3-232-82(25125)
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः।
अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ॥ 3-232-83(25126)
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति।
त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति।
वशगाश्च भविष्यनति सुरास्तव महाभुज ॥ 3-232-84(25127)
महासेनमेवमुक्त्वा निवृत्तः सह दैवतैः।
अनुज्ञातो भगवता त्र्यम्बकेण शचीपतिः ॥ 3-232-85(25128)
गतो भद्रवटंरुद्रो निवृत्ताश्च दिवौकसः।
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ॥ 3-232-86(25129)
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः।
एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ॥ 3-232-87(25130)
स्कन्दस् य इदं विप्रः पठेज्जन्म समाहितः।
`शृणुयाद्ब्राह्मणेभ्यो यः श्रावयेद्वाविचेतनम् ॥ 3-232-88(25131)
धनमायुर्यशो दीप्तिं पुत्राञ्शत्रुजयंतथा'।
सपुष्टिमिहसंप्राप्य स्कन्दसालोक्यमाप्नुयात् ॥ 3-232-89(25132)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-232-8 जृम्भकैर्ग्रहविशेषैः भास्करैर्यक्षरक्षोभिः इति ध.पाठः ॥ 3-232-23 विद्यागणाः स्तुतिपद्यसमूह्यः ॥ 3-232-62 कूवरं धूःप्रदेशम् ॥ 3-232-63 रेसतुः शब्दं चक्रतुः। रोदसी द्यावाभूमी ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.